यः वेदेषु शब्देषु कृतं लोपम्, आगमं आदेशं च जानाति सः एव वेदं सम्यक् रक्षयितुं शक्नोति नान्यः । वस्तुतः यः व्याकरणं न जानाति सः वेदार्थज्ञातुं न समर्थः एव यथा परमे व्योमन् अत्र व्योमन् शब्दः सप्तम्यर्थं बोधयति ।
प्रादेशिकभिन्नतायाः कारणात् जनानां वर्णोच्चारणे भेदः दृश्यते । देशप्रभावात् जातस्य अस्य भेदस्य वर्णनं पाणिनिना अपि शिक्षायां कृतम् । “यथा सौराष्ट्रिका नारी तक्रँ इत्यभिधीयते” इति । वर्णानाम् उच्चारणस्य अयं देशगतः भेदः वर्णानां निर्दिष्टस्थानं यावत् न बाधते तावत् दोषः इति वक्तुं न शक्यते । परं यदा एतद् उच्चारणं उक्तस्थानात् अतिरिच्य प्रवर्तते तदा तद् दोषयुक्तं भवति ।