दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • samvardhini.spf2@gmail.com

पाणिनीय-भाषा-विज्ञानम्

Author : Sunil Kumar
Volume : 5
Issue : 1

सर्वव्यवहारसाधिका मानवं मानवनिर्मात्री मूकजगते शब्दप्रदायिनीयं वाक् यदि नाभविष्यत्तर्हि जगतः कल्पना शिल्पकारस्य मूर्तिमात्रं स्यात् । उच्यते खलु – इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ काव्यादर्शः १.४ लोकाय सर्वादौ वाक्प्रदायिका विश्वस्य सम्पन्नतमस्य आदिमग्रन्थस्य भाषा दैवीवाक् संस्कृतम् एव, यतः विश्वस्य प्रथमाक्रिया प्रारब्धा । तथा हि – अनादिनिधना नित्या वागुत्सृष्टा स्वम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ महाभा. शा.पर्व अ. २२४/५५ अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वाक्यपदीयम् १.१ ज्ञानराशिः शब्दब्रह्मात्मकः वेदः स्वषडङ्गैः परिपूर्णो वर्तते । षडङ्गानि च शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, ज्योतिषम्, छन्दः इति ।