पर्यावरणेन प्रकृत्या सह वा मानवस्य घनिष्ठः सम्बन्धः वर्तते । पर्यावरणं विना जीवनस्य कल्पनाम् अपि कर्तुं न शक्नुमः । जलं, वायुः, पृथ्वी, अग्निः, आकाशः, नद्यः, वनानि, प्राणिनः, पर्वताः, वृक्षलतादयः पर्यावरणीयतत्त्वानि सन्ति ।
भाषायाः माध्यमेन एव वयं सर्वविधस्य जागतिकस्य ज्ञानस्य व्यवहारस्य च सम्पादनं कुर्मः । तथा च भाषायां व्याकरणस्य नियमनं भवति । अतः भाषायाः शुद्धं स्वरूपं अवगन्तुं व्यकारणज्ञानम् आवश्यकम् । व्याक्रियन्ते व्युत्पाद्यन्ते असाधुशब्देभ्यः साधुशब्दाः पृथक् क्रियन्ते इति व्याकरणम् । साधुशब्दानां ज्ञानम् एव व्याकरणाध्यनस्य प्रयोजनम् अस्ति । पतञ्जलिविरचिते व्याकरणमहाभाष्ये रक्षोहागमलघ्वसन्देहाः इति व्याकरणाध्ययनस्य प्रयोजनानि उक्तानि । तान्येव अत्र अस्मिन् लेखे विव्रियन्ते ।