दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • sandeep.joshi993@gmail.com
  • Assistant professor
  • Central Sanskrit University

भारतीयशिक्षापरम्परा

शिक्षणस्य द्विधा प्रवृत्तिः दृश्यते । आधिभौतिकं शिक्षणम् आध्यात्मिकं शिक्षणं च इति । शिक्षायाः उद्देश्यानि पश्यामः चेत् अपि शिक्षायाः द्विधा प्रवृत्तिः दृष्टिपथम् आयाति । सदाचारः, परम्परायाः रक्षणम्, यथार्थस्य ज्ञानस्य प्राप्तिः, मोक्षः इति एतादृशानि शिक्षायाः उद्देश्यानि पश्यामः चेत् एतानि परस्परपूरकाणि सन्ति इति दृश्यते ।

अलङ्काराणाम् उद्भवे मनोवैज्ञानिकप्रक्रिया

अलङ्काराणां केवलं बहिरङ्गत्वं स्वीकर्तुं न शक्यते । आलङ्कारिकाणां मतानुसारम् अलङ्काराः न केवलं वाणीं भूषयन्ति अपि तु भावाभिव्यक्तौ सहायकाः अपि भवन्ति । एतेषाम् अलङ्काराणाम् उद्भवे काचित् मनोवैज्ञानिकी प्रक्रिया अस्ति । अस्याः प्रक्रियायाः कल्पना, स्मृतिः, बिम्बप्रतिबम्बभावः, प्रतीकीकरणम् इति एते अंशाः सन्ति । एतेषाम् अंशानां वर्णनं कृत्वा सोदाहरणम् एषा प्रक्रिया अस्मिन् लेखे प्रतिपादिता अस्ति ।

नूतनशीक्षानीतेः (NEP 2020) परिप्रेक्ष्ये मूल्यानां विमर्शः

षट्त्रिंशद्वर्षेभ्यः अनन्तरं शिक्षानीतिः परिवर्तिता अस्ति । नूतनशिक्षानीतेः क्रियान्वयनं प्रारब्धम् अस्ति । मूल्यानां सन्दर्भे अस्यां नीतौ विहिता चर्चा न केवलं वर्तमानस्य भारतस्य समृद्ध्यर्थम् अपि तु भविष्यस्य भारतस्य निर्माणार्थम् अपि कृता अस्ति ।