दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • shukladeepak970@gmail.com
  • परियोजना–सहायकः
  • Samskrit Promotion Foundation

उपनिषत्सु शैक्षिकचिन्तनम्

Author : Deepak Shukla
Volume : 4
Issue : 1

मनुष्यस्य सर्वाङ्गीणविकासाय महदुपकारिका गुरुकुलपरम्परा । उपनिषदोऽपि इमां गुरुकुलपरम्परां डिण्डिमघोषेण समर्थयन्ति । एतेषु गुरुकुलेषु काले काले यज्ञानुष्ठानानि विद्वद्सम्मेलनानि अपि आयोज्यन्ते स्म । विद्वद्सम्मेलने समागतानां विदूषां विचारः शैक्षिकचिन्तनं दृढयति । सामाजिकता सौहार्दता सौख्यं च अनेन प्रतिपादितं भवति । शीलं, परोपकार:, विनय:, क्षमा, धैर्यम्, अलोभश्चेति विद्याया: उज्ज्वलं फलम् ।