दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • sram31327@gmail.com
  • Senior Research Fellow
  • Samskrit Promotion Foundation

‘सर्वं परित्यज्य कृषिं यत्नेन कारयेत्’

Author : Ram Sharma
Volume : 4
Issue : 2

अन्नमयः कोशः, प्राणमयः कोशः, मनोमयः कोशः, विज्ञानमयः कोशः एवञ्च आनन्दमयः कोशः मानवीयजीवनस्य विकास-सन्दर्भे तैत्तिरीयोपनिषदि पञ्च-कोशानां चर्चा कृता वर्तते । एषा चर्चा मूलरूपेण मानवस्य सम्पूर्ण-व्यक्तित्वस्य चर्चा एव भासते । स्पष्टमेव यत् एतेषु पञ्चकोशेषु अन्नमयः कोशः एव सर्वेषाम् अन्येषां कोशानाम् आधारः वर्तते । एषः कोशः मूलतः मानवस्य शरीरस्य स्वरूपं स्पष्टीकरोति । अतः शरीरस्य विकासार्थम् अन्नस्य आवश्यकता भवति –