गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

Samvardhini

My Profile
  • dr.rooplalsharma36@gmail.com
  • Assistant professor
  • Central Sanskrit University

महाभाष्यव्याख्यानुसारेण विभक्तिसूत्रविमर्शः

Author : Dr. Roop Lal Sharma
Volume : 2
Issue : 1

अन्नम्भट्टः शिवरामेन्द्रसरस्वती च इति एतयोः आचार्ययोः विभक्तिविषयकचिन्तने किं साम्यं किं च वैषम्यं वर्तते ? यदि तयोः विभक्तिविषयकावधारणायां किञ्चित् वैषम्यं वर्तते तर्हि तयोः कः आधिक्येन तर्कसङ्गतं युक्तियुक्तं च प्रतिपादनं करोति ?

श्रीमद्भागवतमहापुराणान्तर्गतमङ्गलपद्यत्रयस्य सामासिकविमर्शः

Author : Dr. Roop Lal Sharma
Volume : 5
Issue : 2

निगमकल्पतरोर्गलितफलभूतं श्रीमद्भागवतमेकतः परमभक्तैरास्वाद्यं वर्तते । अपरश्च विद्वद्भिरपि संसेव्यं विद्यते तद्यथा – विद्यावतां भागवते परीक्षा’ अस्य श्रीमद्भागवतशास्त्रस्य वैशिष्ट्यमनेनैव स्पष्टं भवति यदाधुनिकेऽस्मिन् परिवेशेऽपि सर्वत्र एतत्कथामन्दाकिनी प्रवहन्ति दृश्यते । तथैव विद्वान्सोऽपि विविधटीकाप्रणयनेन निरन्तरमस्य महाग्रन्थस्य ग्रन्थिभेदनं कृतवन्तः । यद्यपि विद्वद्भिः टीकाकारैश्चेदं शास्त्रमधिकृत्य व्याकरणशास्त्रदृष्ट्यापि सुबहुप्रतिपादितं तथापि विद्वान्सः किमपि नूतनं स्फोरयितुं शब्दशास्त्रीयं चिन्तनमत्रानारतं कुर्वन्त्येव । श्रीमद्भागवतशास्त्रस्य प्रारम्भिकाणि मङ्गलपद्यान्यत्यन्तमेव सरसानि भावपूर्णानि च वर्तन्ते । दार्शनिकदृष्ट्यापि विद्वद्भिर्मङ्गलपद्यपरिशीलनं विधीयते । यथाऽस्माभिः पूर्वमपि निर्दिष्टं यद् व्याकरणशास्त्रस्य विविधानि तत्त्वानि नवनवार्थानुसन्धाने विशिष्टां भूमिकां निर्वहन्ति तस्मादेव अस्माभिरत्र प्रारम्भिकमङ्गलपद्यत्रयस्य समासशास्त्रीयं परिशीलनं विधीयते। अत्रेदमुल्लेखनीयं यच्छलोकघटकीभूतानां पद्यानां विग्रहप्रकारोऽपि नूतनार्थानुसन्धाने महत्त्वपूर्णां भूमिकां निर्वहति ।