गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

  • Journal Issues
  • 2019

Call For Research Paper

अनुक्रमणिका

Volume: 1, Issue- 1, March 2019
क्र. शोधपत्राणां विषयाः लेखकाः
1 संस्कृतशैक्षिकसमस्या : निदानम् उपचारः परामर्शः च : Dr. Apurba Sarma
2 भारतीयं मनोविज्ञानम्, भासनाटकचक्रे व्यक्तित्वस्वरूपम् : Dr. Kumar Bagewadimath
3 संस्कृतप्रत्ययाधारितं सङ्गणकसहानुदेशनम् (छात्राभिवृत्त्युपलब्ध्यो: परिप्रेक्ष्ये) : Dr. Manmohan Sharma
4 संस्कृतशिक्षणसन्दर्भे बहुमाध्यमपुञ्जस्य प्रभावः : Dr. Raman Mishra
5 कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः : Dr. Satya Dev
6 भारतीयशिक्षापरम्परा : Dr. Sandeep Vasant Joshi
7 आयुर्वेदस्य भाषा संस्कृतं पठ्यताम् : Samskrit Promotion Foundation
8 काव्यद्वारा संस्कृतम् : Samskrit Promotion Foundation
9 गीतायाः भाषा संस्कृतं पठ्यताम् : Samskrit Promotion Foundation
10 योगस्य भाषा संस्कृतं पठ्यताम् : Samskrit Promotion Foundation
11 वेदान्तस्य भाषा संस्कृतं पठ्यताम् : Samskrit Promotion Foundation

संस्कृतशैक्षिकसमस्या : निदानम् उपचारः परामर्शः च

Author : Dr. Apurba Sarma
Volume : 1
Issue : 1

शिक्षा निरन्तरं प्रवाहमाना काचित् प्रक्रिया अस्ति । शिक्षाप्राप्तौ अस्मिन् जगति मानवः एव समर्थः अस्ति इत्यतः मानवः शिक्षया जीवश्रेष्ठत्वं प्राप्नोति । मानवं विना एतत् जगत् अविकसितम् अन्धकारमयं च अभविष्यत् । मानवस्य श्रेष्ठत्वस्य कारणं तु शिक्षा एव ।

भारतीयं मनोविज्ञानम्, भासनाटकचक्रे व्यक्तित्वस्वरूपम्

Author : Dr. Kumar Bagewadimath
Volume : 1
Issue : 1

भारतम् अस्माकं देशः, एषा भूमिः कस्मिंश्चित् कालखण्डे ज्ञानेन संस्कृत्या च जगतीतले ख्यातनामा आसीत् । अस्मिन् एव देशे चतुष्षष्टिकलाः आविर्भूताः । तादृशीभिः ज्ञानसम्पद्भिः भरितं राष्ट्रम् अस्माकं भारतम् ।

संस्कृतप्रत्ययाधारितं सङ्गणकसहानुदेशनम् (छात्राभिवृत्त्युपलब्ध्यो: परिप्रेक्ष्ये)

Author : Dr. Manmohan Sharma
Volume : 1
Issue : 1

आदिकालात् एव भारतवर्ष: ज्ञानस्य कोषो वर्तते। यद्यपि ज्ञानस्य विकासचक्रमत्रापि प्रतिक्षणं प्रचाल्यमानमस्ति, तथापि ज्ञानरूपवृक्षस्य बीजमारम्भादेव भारते विद्यमानमासीत्। भारतवर्षे ज्ञानस्य तथा सम्मानमासीत् यदत्र आदिग्रन्थस्य नाम ‘वेद:’ इति विहितम् । वेदस्यार्थ: ज्ञानमिति

संस्कृतशिक्षणसन्दर्भे बहुमाध्यमपुञ्जस्य प्रभावः

Author : Dr. Raman Mishra
Volume : 1
Issue : 1

सर्वस्यापि अनुसन्धानस्य निष्कर्षाणां, सामान्यीकरणानाञ्च प्रस्तुतीकरणं भवति एव । एतदेकं महत्त्वपूर्णचरणं वर्तते। समस्तानुसन्धानस्य उपयोगितायाः, प्रभाव-शीलतायाश्च मूल्याङ्कनस्य अयमेव आधारः यदनुसन्धाने प्राप्तव्योद्देश्यानाम् अनुरूपेण प्राप्तिरभवत् उत ना? अस्मिन्नध्याये मूलभूतपरिणामाः प्रस्तूयन्ते।

कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः

Author : Dr. Satya Dev
Volume : 1
Issue : 1

वेदाः सन्त्यानुसन्धातृभिः महर्षिभिरनुभूतस्य परमतत्त्वस्य बोधयितारो भूत्वा भुवि विभान्ति । यत्र प्रत्यक्षस्य न च अनुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति । एषामेव भारतीयसभ्यता-संस्कृतेश्चाधारमूलानां, शिक्षा वर्तते षडङ्गेषु आद्यमङ्गमत्र । स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते च सा शिक्षेति ।

भारतीयशिक्षापरम्परा

शिक्षणस्य द्विधा प्रवृत्तिः दृश्यते । आधिभौतिकं शिक्षणम् आध्यात्मिकं शिक्षणं च इति । शिक्षायाः उद्देश्यानि पश्यामः चेत् अपि शिक्षायाः द्विधा प्रवृत्तिः दृष्टिपथम् आयाति । सदाचारः, परम्परायाः रक्षणम्, यथार्थस्य ज्ञानस्य प्राप्तिः, मोक्षः इति एतादृशानि शिक्षायाः उद्देश्यानि पश्यामः चेत् एतानि परस्परपूरकाणि सन्ति इति दृश्यते ।

आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्

‘एतादृशाः आयुर्वेदग्रन्थाः अध्येतव्याः’ इति जनानाम् इच्छा भवति एव । किन्तु एतादृशाः आयुर्वेद-ग्रन्थाः संस्कृतेन लिखिताः सन्ति । अतः आयुर्वेदग्रन्थानां भाषायाः अवगमनाय ‘आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्’ इति कश्चन पाठ्यक्रमः संस्कृत-संवर्धन-प्रतिष्ठानेन निर्मितः अस्ति ।

काव्यद्वारा संस्कृतम्

सरलसंस्कृतेन विरचितम् इदम् पुस्तकं ‘काव्यद्वारा संस्कृतम्’ इति उद्देश्यं प्राप्तुं लोकोपकारि भविष्यति इति आशया ‘महाभारतस्य भाषा - संस्कृतम् आस्वाद्यताम्’ इति कश्चन पाठ्यक्रमः संस्कृत-संवर्धन-प्रतिष्ठानेन निर्मितः अस्ति । ‘महाभारतस्य भाषा’ इत्यनेन ‘महाभारतग्रन्थे प्रयुक्तायाः संस्कृतभाषायाः शैली’ इति अभिप्रायः अस्ति ।

गीतायाः भाषा संस्कृतं पठ्यताम्

अस्मिन् पाठ्यक्रमे गीतायां प्रयुक्तायाः संस्कृतभाषायाः पाठनं क्रियते । गीतायां प्रमुखतया समासस्य, सन्धेः, लोट्लकारस्य, लट्लकारस्य, प्रत्ययानाम् अव्ययानां च बाहुल्येन प्रयोगः दृश्यते । अस्मिन् पाठ्यक्रमे प्रमुखतया चत्वारः भागाः सन्ति ।

योगस्य भाषा संस्कृतं पठ्यताम्

भारतीयेषु षड्सु दर्शनेषु महर्षिणा पतञ्जलिना विरचितम् अन्यतमं ‘योगदर्शनम्’ । इदं दर्शनं प्रमुखं स्थानम् आवहति । युज-समाधौ इति धातोः घञ्प्रत्ययेन योगः इति पदं सिद्ध्यति । अतः योगः नाम समाधिः, तन्नाम परमात्मना परमात्मनः साक्षात्कारः अर्थात् ‘अन्तः विद्यमानस्य आत्मतत्त्वस्य परमात्मतत्त्वेन सह योजनम्’ इति ।

वेदान्तस्य भाषा संस्कृतं पठ्यताम्

सुखं प्राप्तुं प्रयतमानाय मनुष्याय एतानि दर्शनानि मार्गं दर्शयन्ति । अत एव जिज्ञासवः मनुष्याः आ बहोः कालात् विभिन्नानां दर्शनानाम् अध्ययने रताः सन्ति । एतेषु दर्शनेषु अन्यतमम् अस्ति वेदान्तदर्शनम् । वेदानाम् अन्तिमः भागः उपनिषद् एव वेदान्तः इति कथ्यते ।

Categories

Previous Research Papers