सत्स्त्रिया रक्ष्यते गृहम् ।

  • About the Journal
  • About Samvardhini

Call For Research Paper

मान्याः अनुसन्धातारः
नमस्कारः !

‘भाषा’ इति एषा काचिद् बहुमुखी सामाजिकी संस्था एव । अस्याः विभिन्नानि प्रयोजनानि । अतः प्रयोजनवती भाषा इति प्रसिद्धमेव । अभिव्यक्तिः अस्याः प्रमुखं प्रयोजनम् । एतदनुगुणम् एव अस्याः नैकानि रूपाणि दृश्यन्ते । यथा परस्परं संवादस्य भाषा, साहित्यस्य भाषा, सङ्गीतस्य भाषा, कलायाः भाषा, गणितस्य भाषा, रसायनशास्त्रस्य भाषा, योगस्य भाषा, अध्यात्मस्य भाषा, प्रबन्धनशास्त्रस्य भाषा, वाणिज्यस्य भाषा, आयुर्वेदस्य भाषा, चिकित्साशास्त्रस्य भाषा इति । भाषाविज्ञानस्य क्षेत्रे इदं भाषायाः विशिष्टं प्रयोजनात्मकं स्वरूपं मन्यते । इदमपि स्पष्टमेव यत् प्रत्येकं विषयस्य किञ्चित् विशिष्टं स्वरूपं विशिष्टा प्रकृतिः विशिष्टा च पदावली भवति । तदनुगुणमेव कस्य अपि विषयस्य विशिष्टा वाक्यसंरचना सन्दर्भगताः च सुनिश्चिताः अर्थाः अपि दृश्यन्ते । परिणामतः किञ्चित् विशिष्टं लक्ष्यं साधयितुं कस्य अपि विषयस्य सन्दर्भे कस्याः अपि भाषायाः अध्ययनं क्रियते चेत् तद् अध्ययनं प्रयोजनमूलकम् अध्ययनम् इति रूपेण स्वीक्रियते ।

      एतद् अधिकृत्य संस्कृतसंवर्धनप्रतिष्ठानम् अनुसन्धातॄन् अनुसन्धानार्थं प्रेरयति । संस्कृतसंवर्धनप्रतिष्ठानेन ‘संवर्धिनी’ नाम्ना ई-संस्कृतशोधपत्रिका प्रकाश्यते । अत्र भारतीयशिक्षणपद्धतिः, भाषाविज्ञानम्, संस्कृतशिक्षणसंसाधनानि इति एतादृशान् विषयान् अधिकृत्य लेखाः प्रकाश्यन्ते । प्रकाश्यमानायाः ‘संवर्धिनी’ इति ई-शोधपत्रिकायाः कृते अधोनिर्दिष्टान् विषयान् अधिकृत्य शोधलेखाः सादरम् आमन्त्र्यन्ते ।


1. भाषाविज्ञानम्
2. भारतीयशिक्षणपद्धतिः
3. संस्कृतं सङ्गणकीयभाषातत्त्वानि च
4. संस्कृतभाषासंसाधनानि
5. संस्कृताध्यापनस्य अन्योपकरणानि
6. भारतीयज्ञानपद्धतिः
उक्तविषयेषु कमपि एकं विषयमधिकृत्य संस्कृतमाध्यमेन शोधलेखं लिखित्वा भवन्तः प्रेषयितुं शक्नुवन्ति ।


Respected Research-scholars,
Greetings

Language is multi-dimensional tool which is an integral part of the social system. Communication is one of its many objectives. Language basically conveys thoughts. Accordingly it has various forms such as the language of communication, literature, arts, mathematics, chemistry, yoga, philosophy, spirituality, management, commerce, Ayurveda, therapy etc. In linguistic terms, each form has its own specific terminology, syntax and context. Hence ‘specific purpose oriented language study’ is a new trend. Samskrit Promotion Foundation has produced many courses under “Samskrit for Specific Purpose Series”. It has been accepted by the learners too.

     Foundation publishes an e-journal known as 'Samvardhini' which covers the following topics :-


1. Linguistics
2. Indian teaching methodology
3. Samskrit and Computational linguistics
4. Samskrit Language Tools
5. Other tools for teaching Samskrit
6. Indian Knowledge Systems
Research articles based on the above mentioned topics are invited for publication in 'Samvardhini' e-journal.

Title :- Samvardhini
Frequency :- Bi-Annual since 2022
(Published Annually between 2019 to 2021)
ISSN :- 2583-7176
Publisher :- Executive Officer - Samskrit Promotion Foundation
Chief Editor :- Dr Chand Kiran Saluja
Copyright :- Samskrit Promotion Foundation
Starting Year :- 2019
Subject :- Education,Language, Indian Knowledge Systems, Research
Language :- Samskrit, Hindi, English
Publication Format :- Online
Phone :- 011-35575722
Email :- samskritpromotion@gmail.com
Website: :- www.samvardhini.in
Address :- Vedabhavanam, 2nd Floor, 11204/5, Gaushala Marg, Doriwalan, Delhi - 110006.