गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

  • Journal Issues
  • 2020

Call For Research Paper

संस्कृत-अनुसन्धाने नवीनक्षेत्राणि

Author : Dr. Devdatta Sarode
Volume : 2
Issue : 1

पतञ्जलि:, पाणिनि:, पिङ्गल:, आर्यभट:, चरक; नागार्जुन:, कणाद:, स्टीव जाब्स , बिल गेटस्, न्यूटन, ग्यलिलियो, कोपरनिकस इत्यादय: महान्त: स्वीयप्रतिभाबुद्धिकौशलेन विज्ञानस्य, प्रविधे: अनुसन्धानस्य च नवीनानि क्षेत्राणि उद्घाटितवन्त: ।

शाब्दबोधप्रक्रियायां कारकसम्बन्धविचारः

वाक्यार्थज्ञाने पदपदार्थज्ञानं कारणं भवति इति वैयाकरणानां सिद्धान्तः। शाब्दबोधे कारकस्य एवञ्च विभक्तेः महत्त्वपूर्णं स्थानं भवति। विभक्तिः द्विधा विभज्यते - कारकविभक्तिः कारकेतरविभक्तिः च। कारकसम्बन्धः - पदस्य क्रियया सह यः सम्बन्धः भवति तत् कारकम् इति शब्देन व्यवह्रियते।

शब्दानाम् अर्थस्य अवगमने व्याकरणस्य भूमिका

Author : Pradeep Paudel
Volume : 2
Issue : 1

यः वेदेषु शब्देषु कृतं लोपम्, आगमं आदेशं च जानाति सः एव वेदं सम्यक् रक्षयितुं शक्नोति नान्यः । वस्तुतः यः व्याकरणं न जानाति सः वेदार्थज्ञातुं न समर्थः एव यथा परमे व्योमन् अत्र व्योमन् शब्दः सप्तम्यर्थं बोधयति ।

त्रुटिविश्लेषणम्

Author : Dr. Manmohan sharma
Volume : 2
Issue : 1

‘त्रुटिः’ अध्यापकानां कृते समस्या न अपितु अवसररूपा एका महत्त्वपूर्णा सामग्री इति । आरम्भे त्रुटिविश्लेषणं व्यतिरेकीविश्लेषणस्य प्रक्रियायाः अङ्गत्वेन स्वीकृतं परन्तु भाषाधिगमप्रक्रियायां अस्य स्थानम् अधिकं प्रमुखं स्वतन्त्रं च अस्ति । भाषाध्ययने त्रुटिषु नियन्त्रणम् आवश्यकम् अस्ति ।

आत्मानं नैव जानाति यो न जानाति संस्कृतम्

Author : Vishnu P. Upadhyay
Volume : 2
Issue : 1

सांसारिकविषयेषु अनासक्तः सन् मनुष्यः संस्कृतग्रन्थान् अधीत्य सर्वप्रथमम् आत्मनः विषये एव चिन्तयेत् अर्थात् आत्मानम् उद्धरेत् । यतो हि मनुष्यस्य आत्मा एव बन्धुः अस्ति आत्मा एव शत्रुः अस्ति । अस्मिन् लेखे आत्मानं ज्ञातुं संस्कृतं कथम् आवश्यकम् इति प्रतिपादितम् अस्ति ।

आदर्शसंस्कृतशिक्षकः शिक्षिका वा

Author : Dr. Raman Mishra
Volume : 2
Issue : 1

यः सुमनसा सौम्यचित्तेन सौम्यप्रकारेण संस्कृतं संस्कृतमाध्यमेन पाठयति । परिवेशं संस्कृतमयं कृत्वा छात्रान् छात्राः वा संस्कृतम् अर्जयितुं प्रेरयति । तान्/ताः ‘जागरूकं’ कृत्वा ‘मानवीयं समाजं निर्मातुं’ प्रयत्नशीलः प्रयत्नशीला वा भवति सः/सा एव शिक्षकाणां धुरि स्थित्वा आदर्शमयशिक्षकस्य शिक्षिकायाः वा स्वरूपं प्रदर्शयति ।

महाभाष्यव्याख्यानुसारेण विभक्तिसूत्रविमर्शः

Author : Dr. Roop Lal Sharma
Volume : 2
Issue : 1

अन्नम्भट्टः शिवरामेन्द्रसरस्वती च इति एतयोः आचार्ययोः विभक्तिविषयकचिन्तने किं साम्यं किं च वैषम्यं वर्तते ? यदि तयोः विभक्तिविषयकावधारणायां किञ्चित् वैषम्यं वर्तते तर्हि तयोः कः आधिक्येन तर्कसङ्गतं युक्तियुक्तं च प्रतिपादनं करोति ?

आयुर्वेददृष्ट्या जीवनस्य स्वरूपम्

Author : Dr. Umakant Tiwari
Volume : 2
Issue : 1

सङ्क्षेपेण आयुर्वेदशास्त्रे अस्माकं वैयक्तिकं दैनन्दिनजीवनम्, सामाजिकजीवनं, धार्मिकजीवनम्, आध्यात्मिकजीवनं च वर्णितं वर्तते । अस्माकं सुखकरं हितकरं दीर्घं च आयुः एतैः जीवनस्वरूपैः एव प्रभावितं भवति ।

धर्मशास्त्रोक्तरीत्या राज्ञः इन्द्रियजयः

Author : Abhisek Mukherjee
Volume : 2
Issue : 1

इन्द्रियाणाम् उपरि विजयप्राप्तिः न कश्चन सामान्यः अकस्मात्साध्यश्च विषयः अपि तु सुदीर्घसमयाभ्यासस्य फलमेव । बहवः मुनयः ऋषयश्च साफल्यद्वारे समागतसत्त्वेऽपि मुहूर्तदुर्बलतया साफल्याद् वञ्चिताः अभवन् ।

सम्बोधनपदौचित्यम्

Author : Anoop Sharma
Volume : 2
Issue : 1

वाक्ये सम्बोधनपदस्य किञ्चित् विशिष्टम् एव महत्त्वम्। एकस्मिन् पक्षे इदं प्रयोक्तुः मनोदशां ज्ञापयति अन्यस्मिन् च पक्षे बोधयति यत् कस्याम् अवस्थायां कीदृशं सम्बोधनं प्रयुक्तम् अथवा प्रयोक्तव्यम् । श्रीमद्भगवद्गीतायाः एकादशः अध्यायः अस्य तत्त्वस्य एव प्रामाणिकतां प्रमाणयति । ‘कमलपत्राक्ष’ इति सम्बोधनपदम् अस्ति । कमलस्य पत्रे इव (दीर्घे रक्तान्ते परममनोरमे) अक्षिणी यस्य (तव) सः (त्वं) हे कमलपत्राक्ष, अत्र अर्जुनः प्रेमातिशयात् अतिसौन्दर्यकारणात् च भगवतः श्रीकृष्णस्य कृते एतस्य सम्बोधनस्य प्रयोगं करोति ।

Categories

Previous Research Papers