दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • abhisekrkmv@gmail.com

धर्मशास्त्रोक्तरीत्या राज्ञः इन्द्रियजयः

Author : Abhisek Mukherjee
Volume : 2
Issue : 1

इन्द्रियाणाम् उपरि विजयप्राप्तिः न कश्चन सामान्यः अकस्मात्साध्यश्च विषयः अपि तु सुदीर्घसमयाभ्यासस्य फलमेव । बहवः मुनयः ऋषयश्च साफल्यद्वारे समागतसत्त्वेऽपि मुहूर्तदुर्बलतया साफल्याद् वञ्चिताः अभवन् ।

रसशास्त्रस्य परिप्रेक्ष्ये रसः इति पदस्य अर्थनिरूपणम्

Author : Abhisek Mukherjee
Volume : 4
Issue : 2

उपनिषदि विद्या द्विविधा उक्ता अस्ति परा अपरा च इति । तत्र पराविद्यया ब्रह्मविद्या आत्मविद्या वा प्रतिपादिता । अनया अक्षरस्य ज्ञानं भवति । न क्षरति इति व्युत्पत्त्या अक्षरेण अविनाशिनः कूटस्थस्य नित्यस्य आत्मनः बोधः भवति । एतस्याः ब्रह्मविद्यायाः लाभः केवलं धर्ममार्गेणैव साध्यते । अस्माकं शरीरम् एव धर्मसाधनस्य कर्मसाधनस्य वा क्षेत्रम् अस्ति । अतः धर्माचरणाय शरीरं सुष्ठु संरक्षणीयम् । यद्यपि इदं शरीरं नश्वरम् अस्ति तथापि अस्य सुष्ठु परिचालनेन अस्माकं भुक्तिः मुक्तिः च इति उभयोः प्राप्तिः संसाध्यते । अस्मिन् जगति शरीरम् अकृत्रिमरूपेण तथा च प्राकृतिकरूपेण संरक्षितुं केवलं रसविद्या एव पर्याप्ता अस्ति । तदर्थम् उच्यते -