गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

  • Journal Issues
  • 2022

Call For Research Paper

कश्चन विलक्षणप्रतिभावान् युवा आर्यभटो नाम

Author : Dr. Mohan V
Volume : 4
Issue : 1

व्याख्याकर्ता मल्लिनाथ-सूरिः यथा महाकवि-कालिदासेन सह सम्बद्धः अस्ति, तद्वत् भास्कराचार्यः (प्रथमः) आर्यभटेन सह सम्बद्धः भवति । अर्थात् आर्यभटेन उक्तानां विषयाणां समुचितं विवरणं भास्कराचार्येण (प्रथमेन) कृतम् आसीत् । ऋते भास्कराचार्यस्य कृतेः, आर्यभटेन उक्ताः केचन विषयाः दुर्बोधाः एव तिष्ठेयुः । अस्य भास्कराचार्यस्य वचसा आर्यभटस्य विषये एवं कथ्यते -

उपनिषत्सु शैक्षिकचिन्तनम्

Author : Deepak Shukla
Volume : 4
Issue : 1

मनुष्यस्य सर्वाङ्गीणविकासाय महदुपकारिका गुरुकुलपरम्परा । उपनिषदोऽपि इमां गुरुकुलपरम्परां डिण्डिमघोषेण समर्थयन्ति । एतेषु गुरुकुलेषु काले काले यज्ञानुष्ठानानि विद्वद्सम्मेलनानि अपि आयोज्यन्ते स्म । विद्वद्सम्मेलने समागतानां विदूषां विचारः शैक्षिकचिन्तनं दृढयति । सामाजिकता सौहार्दता सौख्यं च अनेन प्रतिपादितं भवति । शीलं, परोपकार:, विनय:, क्षमा, धैर्यम्, अलोभश्चेति विद्याया: उज्ज्वलं फलम् ।

द्रव्याणां कर्मसामर्थ्यम्

Author : Dr. Anusha Gururajan
Volume : 4
Issue : 1

आहारद्रव्यं सर्वप्राणिनां पोषकेन्धनम् । जीवनस्य त्रिषु उपस्तम्भेषु आद्यः स्तम्भः आहारः वर्तते । देहधारणं पोषणं च तेन विना असाध्यम् । तद्वत् औषधद्रव्याणि अपि दोषादिकानां शमनं, रोगनिवारणं, स्वास्थ्यस्थापनं च कुर्वन्ति । देहपोषकाः आहाराः तथा रोगनिवारकाणि औषधानि च शरीरे कयाचित् शक्त्या कार्यं कुर्वन्ति । तेषु विद्यमानाः केचन अंशाः शरीरस्थानां दोष-धातु-मलादिकानां पोषणं कर्षणं वा कुर्वन्ति ।

चीनदेशीयं ज्योतिषम्

Author : Devarshi Agstya
Volume : 4
Issue : 1

भारतीयज्योतिषं चीनदेशीयज्योतिषं तथा च पाश्चात्यज्योतिषमिति त्रिविधस्य ज्योतिषस्य व्यवहारस्य आधिक्यम् आधुनिककाले अनुभूयते । ज्योतिषशास्त्रस्य प्रवर्तने अस्य शास्त्रस्य दैनन्दिनव्यवहारे उपयोगिता एव अस्ति ।

वैदिके लौकिके च संस्कृतसाहित्ये पर्यावरणम्

Author : Mahdav Joshi
Volume : 4
Issue : 1

पर्यावरणेन प्रकृत्या सह वा मानवस्य घनिष्ठः सम्बन्धः वर्तते । पर्यावरणं विना जीवनस्य कल्पनाम् अपि कर्तुं न शक्नुमः । जलं, वायुः, पृथ्वी, अग्निः, आकाशः, नद्यः, वनानि, प्राणिनः, पर्वताः, वृक्षलतादयः पर्यावरणीयतत्त्वानि सन्ति ।

नूतनशीक्षानीतेः (NEP 2020) परिप्रेक्ष्ये मूल्यानां विमर्शः

षट्त्रिंशद्वर्षेभ्यः अनन्तरं शिक्षानीतिः परिवर्तिता अस्ति । नूतनशिक्षानीतेः क्रियान्वयनं प्रारब्धम् अस्ति । मूल्यानां सन्दर्भे अस्यां नीतौ विहिता चर्चा न केवलं वर्तमानस्य भारतस्य समृद्ध्यर्थम् अपि तु भविष्यस्य भारतस्य निर्माणार्थम् अपि कृता अस्ति ।

Categories

Previous Research Papers