न दानेन विना यशः ।

Samvardhini

My Profile
  • manmohansharma400@gmail.com
  • research faculty
  • Samskrit Promotion Foundation

संस्कृतप्रत्ययाधारितं सङ्गणकसहानुदेशनम् (छात्राभिवृत्त्युपलब्ध्यो: परिप्रेक्ष्ये)

Author : Dr. Manmohan Sharma
Volume : 1
Issue : 1

आदिकालात् एव भारतवर्ष: ज्ञानस्य कोषो वर्तते। यद्यपि ज्ञानस्य विकासचक्रमत्रापि प्रतिक्षणं प्रचाल्यमानमस्ति, तथापि ज्ञानरूपवृक्षस्य बीजमारम्भादेव भारते विद्यमानमासीत्। भारतवर्षे ज्ञानस्य तथा सम्मानमासीत् यदत्र आदिग्रन्थस्य नाम ‘वेद:’ इति विहितम् । वेदस्यार्थ: ज्ञानमिति

त्रुटिविश्लेषणम्

Author : Dr. Manmohan sharma
Volume : 2
Issue : 1

‘त्रुटिः’ अध्यापकानां कृते समस्या न अपितु अवसररूपा एका महत्त्वपूर्णा सामग्री इति । आरम्भे त्रुटिविश्लेषणं व्यतिरेकीविश्लेषणस्य प्रक्रियायाः अङ्गत्वेन स्वीकृतं परन्तु भाषाधिगमप्रक्रियायां अस्य स्थानम् अधिकं प्रमुखं स्वतन्त्रं च अस्ति । भाषाध्ययने त्रुटिषु नियन्त्रणम् आवश्यकम् अस्ति ।

शैक्षिकनिहितार्थानां सन्दर्भे बुद्धेः स्वरूपम्

Author : Dr. Manmohan sharma
Volume : 3
Issue : 1

शोधपत्रेऽस्मिन् साङ्ख्यदर्शनानुसारेण बुद्धेः विविधपक्षाणां शैक्षिकपरिप्रेक्ष्ये विवेचनं विहितम् । प्रस्तावनायां कोशाधारितान् बुद्धेः विविधार्थान् प्रदर्श्य निष्कर्षः प्राप्तः यत् सर्वत्रापि बुद्धिशब्दस्य प्रयोगः प्रायः ज्ञानार्थे कृतः वर्तते । अध्यवसायो बुद्धिः अर्थात् अन्तःकरणे यत् विशिष्टविषयकं निश्चयात्मकं ज्ञानं सा एव बुद्धिः । इति साङ्ख्यदर्शनोक्तार्थं विवेच्य धर्म-ज्ञान-वैराग्य-ऐश्वर्यमिति चत्वारः सात्त्विकभेदाः अधर्म-अज्ञान-अवैराग्य-अनेश्वर्यमिति चत्वारः असात्त्विकभेदाः प्रदर्शिताः । साङ्ख्यदर्शने एतेषां विस्तृतं व्याख्यानं वर्तते । धर्मस्वरूपा सात्त्विकबुद्धिः मानवं सदाचरणाय कर्तव्यपालनाय च प्रेरयति ।

संस्कृतवाङ्मये शिक्षणाधिगमप्रक्रियायाः स्वरूपम्

Author : Dr. Manmohan sharma
Volume : 4
Issue : 2

अध्ययनम्, पठनम्, अधीतिः, अवबोधः, अवगमनम्, अर्जनम् अधिगमनं च इत्येषु सर्वत्र ज्ञानग्रहणस्य प्रक्रिया एव प्रमुखा वर्तते । अथवा एवम् अपि वक्तुं शक्यते यत् अधिगमनादिषु ज्ञानं निहितं तथा ज्ञाने अधिगमनादीनीति । अत एव प्रायः सर्वैरपि भारतीयदर्शनैः ज्ञानग्रहणस्य अधिगमस्य वा कस्याश्चित् विशिष्ट-प्रक्रियायाः निरूपणम् अवश्यम् एव कृतम् । अस्यां प्रक्रियायां मनसः प्रधानभूतं स्थानं वर्तते इति ।

पाणिनीय-सूत्राणां गणितत्वे प्रत्ययचराः

Author : Dr. Manmohan sharma
Volume : 5
Issue : 1

भारतीयज्ञानवाङ्मये द्वयोरपि समानं महत्त्वं विद्यते न केवलं महत्त्वं दृष्ट्या अपितु नियमबद्धत्त्वात् द्वयोः प्रकृतिरपि समाना एव । गणिते यथा नियमानां, सूत्राणाञ्च कारणात् त्रुटेश्वसरो न दीयते तथैव संस्कृते अपि व्याकरणस्य नियमानां, सूत्राणाञ्च प्रभावात् अशुद्धये अवकाशो न विद्यते । अयमेव गुणः द्वयोः प्राणतत्त्वमित्यभिज्ञायते । भारतीयविज्ञानस्य इतिहासे एकं विशिष्टकार्यं, यस्य प्रभावः परवर्ती गणितीयग्रन्थेषु दृष्टः तच्च विशिष्टकार्यं भाषाविज्ञानस्य प्रणेता भगवता पाणिनिना व्याकरणअष्टाध्य्यायी नामकः कश्चन ग्रन्थः संग्रन्थ्य सुसम्पादितम् ।