न दानेन विना यशः ।

Samvardhini

My Profile
  • samvardhinin.spf1@gmail.com

संस्कृत-अनुसन्धाने नवीनक्षेत्राणि

Author : Dr. Devdatta Sarode
Volume : 2
Issue : 1

पतञ्जलि:, पाणिनि:, पिङ्गल:, आर्यभट:, चरक; नागार्जुन:, कणाद:, स्टीव जाब्स , बिल गेटस्, न्यूटन, ग्यलिलियो, कोपरनिकस इत्यादय: महान्त: स्वीयप्रतिभाबुद्धिकौशलेन विज्ञानस्य, प्रविधे: अनुसन्धानस्य च नवीनानि क्षेत्राणि उद्घाटितवन्त: ।

भाषाविज्ञानम् अष्टाध्यायी च

Author : Dr. Devdatta Sarode
Volume : 3
Issue : 1

भाषाविज्ञानस्य मूलभूता: चतस्र: शाखा: सन्ति । १.ध्वनिविज्ञानम् Phonetics २.शब्दरूपविज्ञानम् Morphology ३.अर्थविज्ञानम् Semantics ४.वाक्यविज्ञानम् Syntax च । पाणिनीव्याकरणे एतासां चतसृणां शाखानां बहूनि प्रमाणानि विलोक्यन्ते । पाणिनिना भाषास्वरूपं यथायथं परिरक्षितुं परिकरबन्ध: कल्पित: । एतस्मिन् परिकरबन्धे पाणिने: भाषाविज्ञानं स्फुटम् आविर्भूतं तदेतद् सारसंक्षेपेण अस्मिन् शोधपत्रे ईक्षामहे ।

शास्त्रशिक्षणे गुणवत्तासंवर्धनाय सप्तपदी

Author : Dr. Devdatta Sarode
Volume : 5
Issue : 1

भारतीयपरम्परायां धर्माधर्मयो: सदसतो: कर्त्तव्याकर्त्तव्ययो: विवेकं कर्तुं श्रुतिस्मृतिशास्त्रप्रमाण्यन्तरेण नास्त्यन्यच्छरण्यम् अत एव एवं जातीयकं प्रमाणभूतं शास्त्रम् अस्मत्संस्कृते: जीवातुभूतं वरीवर्ति । शास्त्राणि नैकानि सन्ति, तद्यथा – व्याकरणशास्त्रं, निरुक्तशास्त्रं , योगशास्त्रं धर्मशास्त्रं, ज्योतिषशास्त्रं,गणितशास्त्रं, इत्यादीनि । एतेषां शास्त्राणां शिक्षणपरम्परा अतिप्राचीनकालाद् अजस्रम् अनुवर्तते । तत्र शास्त्रशिक्षणेन शास्त्रस्यैषा परम्परा रक्षिता भावति , किञ्चानेन शास्त्रज्ञानेन ऐहिकामुष्मिकफलावाप्तये सौकर्यं भवति अपि च – ज्ञानं मनुजस्य तृतीयं नेत्रम् इति उक्तत्वात् नहि ज्ञानेन सदृशं पवित्रमिह विद्यते