गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

Samvardhini

My Profile
  • satyad97@gmail.com
  • Assistant professor
  • Central Sanskrit University, Balahar

कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः

Author : Dr. Satya Dev
Volume : 1
Issue : 1

वेदाः सन्त्यानुसन्धातृभिः महर्षिभिरनुभूतस्य परमतत्त्वस्य बोधयितारो भूत्वा भुवि विभान्ति । यत्र प्रत्यक्षस्य न च अनुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति । एषामेव भारतीयसभ्यता-संस्कृतेश्चाधारमूलानां, शिक्षा वर्तते षडङ्गेषु आद्यमङ्गमत्र । स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते च सा शिक्षेति ।

भारतीयज्ञानप्रणाली शोधकार्याणि च

Author : Dr. Satya Dev
Volume : 5
Issue : 2

आर्षज्ञानगर्भाः वेदराशयः। दीर्घकालिकानां संघर्षाणां परिणामेन परम्परायाम् अस्याम् आरोहावरोहः दरीदृश्यते । एतस्मिन् ज्ञानराशौ विधीयमानः श्रमः अनेन संघर्षेण कदाचित्कतया प्रभावाश्रयेण अपि संक्रमितः जातः । तथापि सेयं सनातनी ज्ञानपरम्परा अस्माकं या च यथाकालं जीवनसंघर्षैः विलुण्ठमानानाम् अस्माकं जीवधारिणां पुनर्पुनरपि विकसनाय सामर्थ्यशालिनी वर्तते । भारतीय-उच्चशिक्षायाः ज्ञाननिर्माणस्य उद्देश्यं प्रतिनित्यं समृद्धं स्यात् इति धिया शोधकार्याणि अभीष्टोद्देश्यानि आधारीकृत्य प्रवर्तनीयानि एव । इत्यतः शोधक्षेत्राणां चयनोद्देश्येन लेखनक्रमः अयं संकल्पितः अस्ति ।