न दानेन विना यशः ।

Samvardhini

My Profile
  • samskritpromotion@gmail.com
  • संस्कृतसंवर्धनप्रतिष्ठानम्
  • Samskrit Promotion Foundation

आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्

‘एतादृशाः आयुर्वेदग्रन्थाः अध्येतव्याः’ इति जनानाम् इच्छा भवति एव । किन्तु एतादृशाः आयुर्वेद-ग्रन्थाः संस्कृतेन लिखिताः सन्ति । अतः आयुर्वेदग्रन्थानां भाषायाः अवगमनाय ‘आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्’ इति कश्चन पाठ्यक्रमः संस्कृत-संवर्धन-प्रतिष्ठानेन निर्मितः अस्ति ।

काव्यद्वारा संस्कृतम्

सरलसंस्कृतेन विरचितम् इदम् पुस्तकं ‘काव्यद्वारा संस्कृतम्’ इति उद्देश्यं प्राप्तुं लोकोपकारि भविष्यति इति आशया ‘महाभारतस्य भाषा - संस्कृतम् आस्वाद्यताम्’ इति कश्चन पाठ्यक्रमः संस्कृत-संवर्धन-प्रतिष्ठानेन निर्मितः अस्ति । ‘महाभारतस्य भाषा’ इत्यनेन ‘महाभारतग्रन्थे प्रयुक्तायाः संस्कृतभाषायाः शैली’ इति अभिप्रायः अस्ति ।

गीतायाः भाषा संस्कृतं पठ्यताम्

अस्मिन् पाठ्यक्रमे गीतायां प्रयुक्तायाः संस्कृतभाषायाः पाठनं क्रियते । गीतायां प्रमुखतया समासस्य, सन्धेः, लोट्लकारस्य, लट्लकारस्य, प्रत्ययानाम् अव्ययानां च बाहुल्येन प्रयोगः दृश्यते । अस्मिन् पाठ्यक्रमे प्रमुखतया चत्वारः भागाः सन्ति ।

योगस्य भाषा संस्कृतं पठ्यताम्

भारतीयेषु षड्सु दर्शनेषु महर्षिणा पतञ्जलिना विरचितम् अन्यतमं ‘योगदर्शनम्’ । इदं दर्शनं प्रमुखं स्थानम् आवहति । युज-समाधौ इति धातोः घञ्प्रत्ययेन योगः इति पदं सिद्ध्यति । अतः योगः नाम समाधिः, तन्नाम परमात्मना परमात्मनः साक्षात्कारः अर्थात् ‘अन्तः विद्यमानस्य आत्मतत्त्वस्य परमात्मतत्त्वेन सह योजनम्’ इति ।

वेदान्तस्य भाषा संस्कृतं पठ्यताम्

सुखं प्राप्तुं प्रयतमानाय मनुष्याय एतानि दर्शनानि मार्गं दर्शयन्ति । अत एव जिज्ञासवः मनुष्याः आ बहोः कालात् विभिन्नानां दर्शनानाम् अध्ययने रताः सन्ति । एतेषु दर्शनेषु अन्यतमम् अस्ति वेदान्तदर्शनम् । वेदानाम् अन्तिमः भागः उपनिषद् एव वेदान्तः इति कथ्यते ।

स्मृतिसुमन (आचार्य शिवनारायण शास्त्री)

आचार्य शिवनारायण शास्त्री अपने-आप में एक सम्पूर्ण संस्था थे । वे सिद्ध पुरुष थे । किसी के प्रति ‘द्वेष’ तो न रखते थे पर हाँ ‘राग’ अवश्य ही बहुत ही रखते थे । मित्र ऐसे कि बात-बात पर ‘स्नेह’ टपकता था.... मैंने उन्हें आजीवन केवल दो ही कर्मों में ही लीन पाया.... वह भी निष्काम भाव से... एक, अध्ययन-अध्यापन.. दूसरे, समाज-सेवा । मुझे नहीं लगता कि उनमें कोई दूसरा चिन्तन प्रविष्ट भी हो पाया । वे योगी थे.....