न दानेन विना यशः ।

Samvardhini

My Profile
  • nipazu1987@gmail.com
  • Assistant professor
  • Central Sanskrit University

संस्कृतशैक्षिकसमस्या : निदानम् उपचारः परामर्शः च

Author : Dr. Apurba Sarma
Volume : 1
Issue : 1

शिक्षा निरन्तरं प्रवाहमाना काचित् प्रक्रिया अस्ति । शिक्षाप्राप्तौ अस्मिन् जगति मानवः एव समर्थः अस्ति इत्यतः मानवः शिक्षया जीवश्रेष्ठत्वं प्राप्नोति । मानवं विना एतत् जगत् अविकसितम् अन्धकारमयं च अभविष्यत् । मानवस्य श्रेष्ठत्वस्य कारणं तु शिक्षा एव ।

वर्णोच्चारणविज्ञानम्

Author : Dr. Apurba Sarma
Volume : 3
Issue : 1

प्रपञ्चे या कापि भाषा भवतु, सर्वासां भाषाणां वैशिष्ट्यं वर्तते । प्रायः प्रत्येकं भाषायाः वर्णोच्चारणप्रक्रिया एकां भाषाम् अन्यभाषाभ्यः पृथक्करोति । वर्णोच्चारणम् एव शब्दम् अर्थेन सह योजयति । अतः भाषायाः शुद्धप्रयोगार्थम् ईप्सितभावाभिव्यक्त्यर्थं वर्णानां यथास्थानम् उच्चारणम् अत्यावश्यकं भवति । अतः प्रत्येकम् अपि जनः वर्णोच्चारणविज्ञानं जानीयात् । अस्मिन् लेखे भाषायाः तात्पर्यार्थः, वर्णव्यवस्था, उच्चारणस्थानानि, वर्णोद्भवः, अशुद्धोच्चारणेन जायमानाः समस्याः इत्यादयः बिन्दवः चर्चिताः सन्ति ।

संस्कृतस्य भाषिकविविधता असमीयाभाषायां संस्कृतप्रभावः

Author : Dr. Apurba Sarma
Volume : 4
Issue : 2

‘भाष्’ इति धातोः ‘भाषा’ इति शब्दः निष्पद्यते, यस्यार्थः भवति प्रकाशकरणमिति । ‘भास्’ ‘भाष्’ च धातुद्वयं पृथक्तया वर्तते । भाषया एव सांसारिकः व्यवहारः सम्भवति । अतः कथितम् -