दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • samvardhini.spf1@gmail.com

नागेशदिशा शक्तिनियामकविचारः

Author : Dr. Arvind kumar pandey
Volume : 5
Issue : 1

सारांशः – लेखेऽस्मिन् नागेशभट्टदिशा शक्तिनियामकानां संयोगविप्रयोगादीनां विवरणं कृतं वर्तते। अत्र शक्तिनियामकान् सोदाहरणानि भाष्यादिप्रामाण्येन व्याख्याय समीक्ष्य च अयं निष्कर्षः प्रतिपादितोऽस्ति – 1. वस्तुतः अत्र ( नानार्थकेषु ) सामर्थ्यमेव मुख्यं निर्णायकं वर्तते संयोगादयस्तु तद्व्यञ्जकप्रपञ्चाः सन्ति । 2. नागेशेन शक्तिनियामकानां व्याख्याप्रसङ्गे भर्तृहरेः कारिकाद्वयस्य व्याख्यायाम् उदाहरणेषु च किमपि नूतनं स्वोपज्ञं तथ्यं न प्रतिपादितम् । 3. नागेशव्याख्यापरिशीलनेन तथ्यमिदमवगतं भवति यद् नागेशः सर्वत्र पुण्यराजम् अनुकरोति । यत्र पुण्यराजस्य अनुकरणं न वर्तते तत्र काव्यप्रकाशकर्त्तुः मम्मटस्य अनुकरणं कृतं वर्तते ।