न दानेन विना यशः ।

Samvardhini

My Profile
  • samvardhini.spf2400@gmail.com

सम्बोधनपदौचित्यम्

Author : Anoop Sharma
Volume : 2
Issue : 1

वाक्ये सम्बोधनपदस्य किञ्चित् विशिष्टम् एव महत्त्वम्। एकस्मिन् पक्षे इदं प्रयोक्तुः मनोदशां ज्ञापयति अन्यस्मिन् च पक्षे बोधयति यत् कस्याम् अवस्थायां कीदृशं सम्बोधनं प्रयुक्तम् अथवा प्रयोक्तव्यम् । श्रीमद्भगवद्गीतायाः एकादशः अध्यायः अस्य तत्त्वस्य एव प्रामाणिकतां प्रमाणयति । ‘कमलपत्राक्ष’ इति सम्बोधनपदम् अस्ति । कमलस्य पत्रे इव (दीर्घे रक्तान्ते परममनोरमे) अक्षिणी यस्य (तव) सः (त्वं) हे कमलपत्राक्ष, अत्र अर्जुनः प्रेमातिशयात् अतिसौन्दर्यकारणात् च भगवतः श्रीकृष्णस्य कृते एतस्य सम्बोधनस्य प्रयोगं करोति ।