दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • samvardhini.spf7@gmail.com

सामवेदे स्तोभ: लक्षणं स्वरूपश्च

Author : Ashish Mishra
Volume : 4
Issue : 2

सामगाने ऋगतिरिक्तः प्रयुज्यमानः वर्णः स्तोभः कथ्यते। सामवेदस्य लक्षणग्रन्थेषु स्तोभस्य स्वरूपस्य विस्तृतं विवरणं प्राप्यते। सर्वप्रथमं संहि.ब्रा. इत्यस्मिन् स्तोभस्योल्लेखः स्पष्टरूपेणाभवत्। एवञ्च कथितमस्ति यत् स्तोभः साममोनि ऋचि कुत्रापि न भवति। किन्तु सामगाने सर्वत्र प्रवृत्तो भवति। तत्र स्तोभस्य विशेषणस्वरूपे सर्वत्र गताः शब्दस्य प्रयोगः कृतः वर्तते। यस्याभिप्रायोऽपि सायणानुसारं सर्वासु देवतासु व्याप्तं भवितव्यम्। यतो हि स्तोभ सर्वस्यै देवतायै प्रयुक्ते साम्नि दृश्यते।