न दानेन विना यशः ।

Samvardhini

My Profile
  • samvardhini.spf4@gmail.com

कश्चन विलक्षणप्रतिभावान् युवा आर्यभटो नाम

Author : Dr. Mohan V
Volume : 4
Issue : 1

व्याख्याकर्ता मल्लिनाथ-सूरिः यथा महाकवि-कालिदासेन सह सम्बद्धः अस्ति, तद्वत् भास्कराचार्यः (प्रथमः) आर्यभटेन सह सम्बद्धः भवति । अर्थात् आर्यभटेन उक्तानां विषयाणां समुचितं विवरणं भास्कराचार्येण (प्रथमेन) कृतम् आसीत् । ऋते भास्कराचार्यस्य कृतेः, आर्यभटेन उक्ताः केचन विषयाः दुर्बोधाः एव तिष्ठेयुः । अस्य भास्कराचार्यस्य वचसा आर्यभटस्य विषये एवं कथ्यते -