यदा वयं स्वविचारान् उपस्थापयितुम् आरभामहे तदा शब्दानाम्, शब्देभ्यः जनितानाम् अर्थानाञ्च विचारं मनसि पूर्वं कुर्मः एव । तेन ज्ञायते यत् ‘एषः शब्दः अमुम् अर्थं बोधयति’ इति । अत एव अस्माभिः तादृशानां शब्दानां प्रयोगः क्रियते, अर्थात् अर्थानुगुणं शब्दानां प्रयोगः क्रियते ।