गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

Samvardhini

My Profile
  • bhatgirish1997@gmail.com
  • Vidyavaridhi (Ph.D) Research Scholar in Siddhanta Jyotisha Shastra
  • National Sanskrit University Tirupati

कुट्टकगणितद्वारा रविमन्दोच्चभगणोपपत्तिप्रदर्शनम्

Author : GIRISHA BHAT B
Volume : 5
Issue : 2

हेतुवादपुरस्सरं वस्तुस्थापनमेव उपपत्तिः । इह गणितस्कन्धे उपपत्तिमानेव आगमः प्रमाणम् । अतः उपपत्त्या ये भगणाः सिद्ध्यन्ति ते एव ग्राह्याः । रविचन्द्रादीनां ग्रहाणाम् भगणान् वयं वेधद्वारा एव उपपादयितुं शक्नुमः । किन्तु मन्दोच्चादीनां तु अनेकैः वर्षशतैः एको भगणः पूर्यते । मनुष्यस्य आयुः अधिकाधिकं शतवर्षमितं वा ततोऽपि किञ्चिदधिकं वा भवितुमर्हति । अत एव मन्दोच्चादीनां भगणानां वेधं कर्तुं मनुष्येण न शक्‍यते । अतः मन्दोच्चादीनां भगणोपपत्तिप्रदर्शनार्थं कुट्टकविधिः गणकैः आश्रितः । सिद्धान्तशिरोमणिग्रन्थे ग्रहगणिताध्याये मध्यमाधिकारे कालमानाध्याये भास्कराचार्येण कुट्टकगणितद्वारा रविमन्दोच्चभगणोपपत्तिं कथं प्रदर्शयितुं शक्‍यते इति प्रतिपादितमस्ति । तं च क्रमं गणितरूपेण शोधपत्रेऽस्मिन् निरूप्यते ।