येनात्मा पण्यतां नीतः स एवान्विष्यते जनैः । हस्ती हेमसहस्रेण क्रियते न मृगाधिपैः ॥

Samvardhini

My Profile
  • bishnupoudel1992@gmail.com
  • Senior Research Fellow
  • Samskrit Promotion Foundation

आत्मानं नैव जानाति यो न जानाति संस्कृतम्

Author : Vishnu P. Upadhyay
Volume : 2
Issue : 1

सांसारिकविषयेषु अनासक्तः सन् मनुष्यः संस्कृतग्रन्थान् अधीत्य सर्वप्रथमम् आत्मनः विषये एव चिन्तयेत् अर्थात् आत्मानम् उद्धरेत् । यतो हि मनुष्यस्य आत्मा एव बन्धुः अस्ति आत्मा एव शत्रुः अस्ति । अस्मिन् लेखे आत्मानं ज्ञातुं संस्कृतं कथम् आवश्यकम् इति प्रतिपादितम् अस्ति ।

भाषाशिक्षणे व्याकरणस्य योगदानम्

Author : Vishnu P. Upadhyay
Volume : 3
Issue : 1

व्याकरणं भाषायाः केवलं नियामकः न, अपितु विश्लेषकः अपि अस्ति । भाषायाः गतिः व्याकरणेन अवरुद्धा न भवति । भाषा व्याकरणेन परिवर्तितापि न भवति । भाषा तु स्वगत्या चलति एव । व्याकरणं तस्याः गत्याः नियामकम् अस्ति, न तु अवरोधकम् । भाषाविज्ञानं व्याकरणं च इति शास्त्रद्वयम् अस्ति । उभयोः कार्यक्षेत्रं भिन्नं भिन्नं वर्तते । द्वे अपि परस्परं सहयोगिनी स्तः । व्याकरणं पदप्रयोगं विचारयति, किन्तु भाषाविज्ञानं पदस्य मूलम्, धातोः अथवा प्रकृत्याः व्युत्पत्तीनां विश्लेषणं करोति । एवं वक्तुं शक्नुमः यत् व्याकरणं भाषायाः मित्रम् अस्ति तां सन्मार्गे चलितुं प्रेरयति ।

वेदाङ्गानि : आवश्यकता स्वरूपञ्च

Author : Vishnu P. Upadhyay
Volume : 4
Issue : 2

अस्मिन् लेखे वेदानाङ्गां सामान्यः परिचयः प्रतिपाद्यते । एतानि सर्वाण्यपि अङ्गानि वेदस्याध्ययने साहायकानि भवन्ति । एतेषामङ्गानामध्ययनेन भाषाविषये उच्चारणविषये शब्दानां व्युत्पत्तिविषये च ज्ञानं सुदृढं भवति ।

प्राचीनभारते गुरुकुलशिक्षायाः महत्त्वम्

Author : Vishnu P. Upadhyay
Volume : 5
Issue : 2

येन केन प्रकारेण उदरपूर्तिः मानवस्य उद्देश्यं नास्ति । आहार-निद्रा-भय-मैथुनादयः क्रियाकलापाः पशुप्राणिषु अपि प्राप्यन्ते एव येन केनापि प्रकारेण आहारप्राप्तिः तेषाम् उद्देश्यं भवति । किन्तु मानवस्य तथा नास्ति मानवस्य उद्देश्यं मोक्षप्राप्तिः अस्ति । अतः मोक्षप्राप्तिनिमित्तं सात्त्विकभावनया गुरुकुले गुरोः समीपे उपविश्य अध्ययनं तपोयुक्तजीवनं च आवश्यकमिति कारणेन ज्ञायते यत् गुरुकुलशिक्षायाः महत्त्वम् अत्यधिकमस्ति ।