न दानेन विना यशः ।

Samvardhini

My Profile
  • vaidyaanushaa@gmail.com
  • Senior Research Fellow
  • Samskrit Promotion Foundation

द्रव्याणां कर्मसामर्थ्यम्

Author : Dr. Anusha Gururajan
Volume : 4
Issue : 1

आहारद्रव्यं सर्वप्राणिनां पोषकेन्धनम् । जीवनस्य त्रिषु उपस्तम्भेषु आद्यः स्तम्भः आहारः वर्तते । देहधारणं पोषणं च तेन विना असाध्यम् । तद्वत् औषधद्रव्याणि अपि दोषादिकानां शमनं, रोगनिवारणं, स्वास्थ्यस्थापनं च कुर्वन्ति । देहपोषकाः आहाराः तथा रोगनिवारकाणि औषधानि च शरीरे कयाचित् शक्त्या कार्यं कुर्वन्ति । तेषु विद्यमानाः केचन अंशाः शरीरस्थानां दोष-धातु-मलादिकानां पोषणं कर्षणं वा कुर्वन्ति ।