सङ्क्षेपेण आयुर्वेदशास्त्रे अस्माकं वैयक्तिकं दैनन्दिनजीवनम्, सामाजिकजीवनं, धार्मिकजीवनम्, आध्यात्मिकजीवनं च वर्णितं वर्तते । अस्माकं सुखकरं हितकरं दीर्घं च आयुः एतैः जीवनस्वरूपैः एव प्रभावितं भवति ।
आयुर्वेदे ‘कालगणना, दिनम्, रात्रिः, अहोरात्रः, पक्षः, मासः, तिथिः, मुहूर्तः, ऋतुः, अयनम्, सौरवर्षः, ग्रहः, नक्षत्रम्, पातः, ग्रहणम्’ इत्यादयः ज्योतिषीयविषयाः अपि यथावश्यकतया प्रयुक्ताः सन्ति । अतः आयुर्वेदस्य विद्यार्थिनां कृते तेषां विषयाणां सम्यक् ज्ञानम् अपेक्षितं भवति । तेषाम् अपेक्षितानां ज्योतिषीयविषयाणां ज्ञानेन विना अभीष्टस्य अर्थस्य अवबोधः भवितुं न अर्हति ।
वाटिकाविधानम् अथवा उपवनविधानम् एकं महत्त्वपूर्णं सामाजिकं कर्म भवति । भारतीयधर्मशास्त्रे एतत् पूर्त्तकर्मसु एकं भवति । वाटिकायाः अथवा उपवनस्य शोभाः विभिन्न-प्रकारकैः पादपैः भवति, ते पादपाः यथोचिते काले रोपणेन एवं च यथाकालं तेषां सेचनेन ते संवर्धिताः सन्तः यथाकालं फलपुष्पादिभिः समन्विताः भवन्ति इत्यतः वाटिकाविधानसमये अथवा उपवनविधानसमये कालस्य विचारः अवश्यं करणीयः भवति । कालस्य बोधनार्थम् एव ज्योतिषशास्त्रं प्रवर्तितम् ।