सांसारिकविषयेषु अनासक्तः सन् मनुष्यः संस्कृतग्रन्थान् अधीत्य सर्वप्रथमम् आत्मनः विषये एव चिन्तयेत् अर्थात् आत्मानम् उद्धरेत् । यतो हि मनुष्यस्य आत्मा एव बन्धुः अस्ति आत्मा एव शत्रुः अस्ति । अस्मिन् लेखे आत्मानं ज्ञातुं संस्कृतं कथम् आवश्यकम् इति प्रतिपादितम् अस्ति ।
व्याकरणं भाषायाः केवलं नियामकः न, अपितु विश्लेषकः अपि अस्ति । भाषायाः गतिः व्याकरणेन अवरुद्धा न भवति । भाषा व्याकरणेन परिवर्तितापि न भवति । भाषा तु स्वगत्या चलति एव । व्याकरणं तस्याः गत्याः नियामकम् अस्ति, न तु अवरोधकम् । भाषाविज्ञानं व्याकरणं च इति शास्त्रद्वयम् अस्ति । उभयोः कार्यक्षेत्रं भिन्नं भिन्नं वर्तते । द्वे अपि परस्परं सहयोगिनी स्तः । व्याकरणं पदप्रयोगं विचारयति, किन्तु भाषाविज्ञानं पदस्य मूलम्, धातोः अथवा प्रकृत्याः व्युत्पत्तीनां विश्लेषणं करोति । एवं वक्तुं शक्नुमः यत् व्याकरणं भाषायाः मित्रम् अस्ति तां सन्मार्गे चलितुं प्रेरयति ।
अस्मिन् लेखे वेदानाङ्गां सामान्यः परिचयः प्रतिपाद्यते । एतानि सर्वाण्यपि अङ्गानि वेदस्याध्ययने साहायकानि भवन्ति । एतेषामङ्गानामध्ययनेन भाषाविषये उच्चारणविषये शब्दानां व्युत्पत्तिविषये च ज्ञानं सुदृढं भवति ।
येन केन प्रकारेण उदरपूर्तिः मानवस्य उद्देश्यं नास्ति । आहार-निद्रा-भय-मैथुनादयः क्रियाकलापाः पशुप्राणिषु अपि प्राप्यन्ते एव येन केनापि प्रकारेण आहारप्राप्तिः तेषाम् उद्देश्यं भवति । किन्तु मानवस्य तथा नास्ति मानवस्य उद्देश्यं मोक्षप्राप्तिः अस्ति । अतः मोक्षप्राप्तिनिमित्तं सात्त्विकभावनया गुरुकुले गुरोः समीपे उपविश्य अध्ययनं तपोयुक्तजीवनं च आवश्यकमिति कारणेन ज्ञायते यत् गुरुकुलशिक्षायाः महत्त्वम् अत्यधिकमस्ति ।
अस्मिन् संसारे बहुविधाः जनाः सन्ति केचन मन्दमतयः केचन प्रत्युत्पन्नमतयः केचन तीव्रकोपाः केचन सर्वदा शान्ताः उत्साहिनः धर्मप्रियाः अधर्मासक्ताः परोपद्रवतृप्ताः परोपकारनिरता इति । एकस्मिन्नेव कुले जातानां भ्रातॄणाम् एकस्मिन् ग्रामे निवसतां च मनुष्याणां विचाराः विभिन्नाः दृश्यन्ते रुचिश्च भिन्ना भवति। केचन अन्यैः सह व्यवहारं कर्तुं समर्थाः भवन्ति । केचन स्वकार्यमपि निर्वोढुमशक्ताः परमुखप्रेक्षिणः भवन्ति। तथा च एकैकोऽपि मनुष्यः आकारे आशये च अन्यस्मात् भिन्नः भवति । अत्र किं कारणमिति विचारणीयम्। अस्मिन् लोके जीवनं सभ्यं सम्पादनीयम् । कोपादयः अनभिलषणीयाः अवगुणाः निरोद्धव्याः वर्तन्ते । एतत्सर्वं कथं कर्तुं शक्यते ? इति तुल्येऽपि मनुष्ये अस्ति केषुचित् नरेषु विशिष्टं परकीयमनोज्ञानं येन ते स्वं जीवनं सभ्यं वर्तयितुं शक्नुवन्ति ।